(ಇದು ನಾನು ಬರೆದ ಮೊದಲ ಸಂಸ್ಕೃತ ಲೇಖನ. ಕಣ್ತಪ್ಪಿನಿ೦ದಾದ ಕೆಲ ಅಕ್ಷರ ಅಥವಾ ವ್ಯಾಕರಣ ದೋಷಗಳಿರಬಹುದು. ಸಂಸ್ಕೃತ ಬರುವ ಅಥವಾ ಬರದ ಹೊರತಾಗಿ ಓದಿ ಹೇಗಿದೆಯೆ೦ದು ತಿಳಿಸಿ. ಹಾ೦..Comment ಹಾಕಲು ಮರೆಯಬೇಡಿ.)
"भाषासु मुख्या मधुरा दिव्या गीर्वाण भारती" इत्यनॆन वचनॆन ज्ञायतॆ यत् संस्कृत भाषा प्रभावपूर्णा मनॊज्ञा चॆति । ऎषा अत्यन्त प्राचीनतमा भाषा । पूर्वास्मिन् कालॆ व्यवहार माध्यमत्वॆनापि संस्कृतम् तत्र तत्र उपयुज्यन्ते स्म। या काsपि भाषा भवतु व्यवहारिक क्षॆत्रॆ पातिता चॆत् कश्चन लाभ: कश्चन नष्ट: इति उभयस्थितीम् अनुभवति। प्रादॆशिक भिन्नतया उच्चारण सौकर्यानुसारॆण च भाषा स्वरूपॆ कुत्रचित् व्यत्यासः वैविध्यश्च सम्भवति। परन्तु भाषा व्यवहारॆण श्रीमन्ता भवति। नैकशब्दा: भाषाम् प्रवर्धयन्ति च।
संस्कृत भाषा अन्यान्य भाषावत् व्यवहारॆन प्रयुक्ता इति हॆतॊः तथा गृन्थरूपॆणैव सम्रुद्ध: आसीदिति कारणत: विशिष्ठ: रूपॆण च अस्ति। गृन्थ भाषा व्यवहार भाषात: भिद्यते इति तु भाषाविदाम् अभिप्राय:। अत: संस्कृत भाषा प्रचुर्यॆण गृन्थॆण ऎव वर्धितास्ति।
प्राचीना: कवयः संस्कृत भाषा रूपॆणैव गृन्थान् अरचयन् । तॆषु वेदा: ऐतिहासिक दृश्ट्या अती प्राचीनाः । सकलविध ज्ञान विज्ञानानाम् वॆदाः ऎव मूलस्तॊत्रम्। मानवस्य मनॊविकारस्य सुप्रभातगीताः वॆदाः इव प्रतिभान्ति। ऋग्वॆदॆ संस्कृत भाषायाः सहज सौन्दर्यम् विमल सम्पदम् च वयम् पश्यामः।
"आ नॊ भद्राः कृतयॊ यन्तु विष्वतः।
विष्वॆ तद्भद्रम् यदवन्ति वॆदाः ॥" इत् चामयन्ति वॆदाः । "तॆन त्यक्तेन भुन्जिता" इति उपनिषदः उद्घॊषयन्ति। "परॊपकाराय पुण्याय पापाय परपीडनम्" इति प्रतिपादयन्ति धर्मगृन्थाः ।
आदिकाव्यमिति परिगृहितुम् रामायणम् भारतीय जनमानसम् निरन्तरम् आकर्षयन् अनर्घ्यरत्नमिव विभाति। रामायणम् भारतीय संस्कृतॆः अविभाज्य अन्गम् अस्ति। कन्नड महाकवीनाम् सुष्टु उक्तम् यत् "ತಿಣುಕಿದನು ಫಣಿರಾಯ ರಾಮಾಯಣ ಕವಿ ಭಾರದಲಿ" मर्त्यशॆषः रामायणस्य भारॆन पीडाम् अनुभवति इति।
महाग्रन्थः महाभारतः विश्वकॊषः। यता सूतः भणति
"धर्मे च अर्थे च कामेच भरतर्षभ ।
यदिहास्ति तदन्यत्र यन्नॊहास्ति नतत् क्वचित्॥"
महाभारतान्तर्गता न कॆवलम् तत्वशास्त्रम् किन्तु जीवन शास्त्रम् अपि। स्वस्य लघुम् मुखॆ यथा यशॊदायै ब्रह्मान्डम् अदर्शयति तथा परिमित कालॆषु अस्मिन् लघुगृन्थे सकल आध्यात्मिक तत्वानि जीवन शास्त्रॆण समन्वयन् निरूपयति गीताचार्यः। भवरॊगॆन पीडितॆभ्य: चरवैद्यः इव सिद्धौषधरूपम् वॆदॊपनिदाम् रहस्यम् नवीनरीत्या हृदयङ्गमरूपॆण उद्घाटयति श्रीकृष्णः ।
ऎवमॆव समस्तमपि सम्स्कृत वाङ्मयम् अस्मात् पूर्वजैः अस्माकमॆव समुत्कर्षाय हितसाधनाय च महता परिशृमॆण च तपश्चर्यया च विरचितमस्ति। सम्स्कृत कृतयः खलु अस्माकम् परम्परागतम् सर्वॊत्कृष्ट धनमस्ति। अतः वयम् सर्वॆ सम्स्कृतकाव्यानाम् अध्ययनशीलाः भवॆम ।

ಅಭಿನಂದನೆಗಳು ಸಚಿನ್. ಶುಭವಾಗಲಿ.
ReplyDeleteಧನ್ಯವಾದಗಳು ರಾಜೇ೦ದ್ರ ಸರ್.
DeleteAwesome blog man:-) superb.. keep it up, not a word i could understand:-)
ReplyDeleteWow thank u dear friend...! Sorry buddy, I donno African to make u understand. For u I wil learn soon n post in that language also.
ReplyDeleteHow did u know that I speak African?? You are great man, u r so knowledgeable..
ReplyDeleteOh Sweet heart...Giv a list of ur likes. I'll surely post all those with pleasure...:-)
ReplyDeleteGood article Sachin
ReplyDeleteThank you Balanna...:)
Deleteuttamam..manojna bhaashaa prayogancha..
ReplyDeleteDhanyavaadah..:)
DeleteThis comment has been removed by the author.
ReplyDelete